(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.289. अध्यायः 289
Mahabharata - Vana Parva - Chapter Topics
लक्ष्मणएन्द्रजितोर्युद्धम् ॥ 1 ॥ अङ्गदेनेन्द्रजिद्रथभङ्गे मायया तस्यान्तर्धाने च रामेणापि तत्रागमनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

मार्कण्डेय उवाच। 3-289-0x(2714)(27056)
ततः श्रुत्वाहतं सङ्ख्ये कुम्भकर्णं सहानुगम्।
प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् ॥ 3-289-1(27057)
पुत्रमिनद्रजितं वीरं रावणः प्रत्यभाषत।
जहिरामममित्रघ्न सुग्रीवं च सलक्ष्मणम् ॥ 3-289-2(27058)
त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम्।
जित्वावज्रधरं सङ्ख्ये सहस्राक्षं शचीपतिम् ॥ 3-289-3(27059)
अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः।
जहि शत्रूनमित्रघ्न मम शस्त्रभृतांवर ॥ 3-289-4(27060)
रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ।
समर्थाः प्रतिसोढुं च कुतस्तदनुयायिनः ॥ 3-289-5(27061)
अगता या प्रहस्तेन कुम्भकर्णेन चानघ।
खरस्यापचितिः सङ्ख्ये तां गच्छ त्वे महाभुज ॥ 3-289-6(27062)
त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान्।
प्रतिनन्दय मां पुत्र पुरा जित्वेव वासवम् ॥ 3-289-7(27063)
इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशिथः।
प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति ॥ 3-289-8(27064)
ततो विश्राव्य विस्पष्टं नाम राक्षसपुङ्गवः।
आह्वयामास समरे लक्ष्मणं शुभलक्षणम् ॥ 3-289-9(27065)
तं लक्ष्मणोऽभ्यधावच्च प्रगृह्य सशरं धनुः।
त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा ॥ 3-289-10(27066)
तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः।
दिव्यास्त्रविदुपोस्तीव्रमन्योन्यस्पर्धिनोस्तदा ॥ 3-289-11(27067)
रावणिस्तु यदा नैनं विशेषयति सायकैः।
ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः ॥ 3-289-12(27068)
तत एवं महावेगैरर्दयामास तोमरैः।
तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः ॥ 3-289-13(27069)
ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्धरणीतले।
`साधका रावणेराजौ शतशः शकलीकृताः ॥ 3-289-14(27070)
तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम्।
अभिद्रुत्य महावेगस्ताडयामास मूर्धनि ॥ 3-289-15(27071)
तस्येन्द्रजिदसंभ्रान्तः प्रासेनोरसि वीर्यवान्।
प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः ॥ 3-289-16(27072)
तमभ्याशगतं वीरमङ्गदं रावणात्मजः।
गदयाऽताडयत्सव्ये पार्श्वेवानरपुङ्गवम् ॥ 3-289-17(27073)
तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः।
ससर्जेन्द्रजितः क्रोधात्सालस्कन्धं तथाङ्गदः ॥ 3-289-18(27074)
सोऽङ्गदेन रुपोत्सृष्टो वधायेन्द्रजितस्तरुः।
जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् ॥ 3-289-19(27075)
ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः।
तत्रैवान्तर्दधे राजन्मायया रावणात्मजः ॥ 3-289-20(27076)
अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम्।
रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत ॥ 3-289-21(27077)
स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा।
विव्याध सर्वगात्रेषु लक्ष्मणं च महाबलम् ॥ 3-289-22(27078)
तमदृश्यंशरैः शूरौ माययाऽन्तर्हितं तदा।
योधयामासतुरुभौ रावणिं रामलक्ष्मणौ ॥ 3-289-23(27079)
स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः।
व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः ॥ 3-289-24(27080)
तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान्।
हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः ॥ 3-289-25(27081)
तांश्च तौ चाप्यदृश्यः सशरैर्विव्याध राक्षसः।
स भृशं ताडयामास रावणिर्मायया वृतः ॥ 3-289-26(27082)
तौ शरैरर्दितौ वीरौ भ्रारौ रामलक्ष्मणौ।
पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव ॥ 3-289-27(27083)

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि एकोननवत्यधिकद्विशततमोऽध्यायः ॥ 289 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-289-18 रासर्ज उत्सृष्टवान्। सालस्कन्धं महास्कन्धं तरुम् ॥ 3-289-26 तान् हरीन्। तौ च रामलक्ष्मणौ ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.